Bihar Board Class 7 Sanskrit व्याकरण अनुच्छेद-लेखनम

Bihar Board Class 7 Sanskrit Solutions व्याकरण अनुच्छेद-लेखनम

BSEB Bihar Board Class 7 Sanskrit व्याकरण अनुच्छेद-लेखनम

सत्संगतिः

मानवाः सामाजिकः प्राणी वर्तते । यादृशे समाजे मानवः वसति तादृशमेव गुणं दोष वा स आदत्ते । अतएव उच्यते– संसर्गजा दोष-गुणा भवन्ति इति । यथा चन्दन वृक्ष संपर्केण कुटजादि वृक्षाः अपि चन्दनाः भवन्ति तथैव सतां सम्पर्केण दुष्टाः अपि सज्जनाः भवन्ति ।

पुस्तकालयः

पुस्तकानाम् आलय: पुस्तकालयः कथ्यतं । पुस्तकालये विभिन्नां विषयाणाम् उत्तमोत्तमानि पुस्तकानि सुरक्षितानि तिष्ठन्ति । तेषां पुस्तकानाम् अध्ययनेन मानवानां ज्ञानं वर्धते । ये विद्वांसः यावन्ति अधिकानि पुस्तकानि पठन्ति तेषां तवात् अधिकं ज्ञानम् भवति । पुस्तकालयस्य प्रभावेणैव वयं स्वकीय इतिहास विद्मः । लक्षाणां वर्षाणाम् व्यवधानेन अपि तेषां दर्शनं कुर्मः ।

Bihar Board Class 7 Sanskrit व्याकरण अनुच्छेद-लेखनम

परोपकारः

स्वार्थ परित्यज्य परार्थभावनाया परेषा उपकारः परोपकारः कथ्यते । यैः गुणैः मानव श्रेष्ठः गण्यते तेषु गुणेषु परोपकारस्य प्रथम स्थानं वर्तते । यस्मिन् मानवे परोपकाररूपो गुणो नास्ति स पशुः एव विद्यते: । पशवः अपि खादन्ति पिबन्ति तथा शयनं जागरणं च कुर्वन्ति । ईश्वर: वाञ्छति यत् सर्वे परोपकार कुर्वन्तु । प्रकृति अपि परोपकारस्य शिक्षा ददाति ।

विद्या

“विद् ज्ञाने’ इति धातो: विद्या शब्द: सिध्यति । वेत्ति जानति यथा सा विद्या ज्ञानं द्विविधं भवति स्वाभाविक नैमित्तिक च । स्वाभाविक ज्ञानं सर्वेषु प्राणिषु तिष्ठति । नैमित्तकं ज्ञानं मानवानां किमपि निमित्तमासाद्य भवति । मानवानां नैमित्तिके ज्ञाने विद्याया: मुख्यं स्थानं भवति । अतएव उच्यते विद्याविहीनः पशु इति ।

गङ्गा

नदीषु गङ्गा श्रेष्ठा । गङ्गा पवित्रतमा नदी विद्यते । एषा हिमालयात् निःसरति बङ्गीयसागरे च पतति । अस्याः तटे अनेकानि नगराणि तीर्थस्थानानि च सन्ति । गङ्गाजलं रोगनाशकं भवति । अस्याः जलं परमं पवित्रं भवति । गङ्गाजलं कीटाणवोऽपि न जायन्ते ।

Bihar Board Class 7 Sanskrit व्याकरण अनुच्छेद-लेखनम

वसन्तः

वसन्तः ऋतुनां राजा कथ्यते । वसन्तो हि प्रकति रञ्जयति । ऋतौ वसन्ते निखिलं जगत् चारुतरं सम्पद्यते । तरवो लताश्च प्रसीदन्ति पुष्पोद्भवे । तरुणा: तरुणयश्च मधुरायनते यौवन-विभ्रमेण कमलानि विकसन्ति, मधुकराः मधुरं गुजन्ति, कोकिला: कलं कूजन्ति मलयानिलश्च मन्दं संचरन् सर्वान् नन्दयति ।

विद्यालयः

विद्यायाः आलयः विद्यालयः कथ्यते । विद्यालये विद्यार्थिनः शिक्षकेभ्यः विद्यां प्राप्नुवन्ति । सम्प्रति प्रायः ग्रामे-ग्रामे विद्यालयाः विराजन्ते । प्रति विद्यालये अनेक अध्यापका: बहवः छात्राश्च भवन्ति । विद्यालयस्य प्रकोष्ठेष श्यामपटाः, शिक्षाकाणाम् उपवेशनार्थ आसन्धः छात्राणां कृते च आसनानि आपि भवन्ति ।

गौः

गौः कृषिप्रधानस्य भारतस्य आर्थिकोन्नतेः सुदृढं मूलमस्ति । गौः वत्सा: वृषभाः सन्तः कर्षन्ति शकटं च बहन्ति । गौः स्वकीयेन दुग्धेन मातृवत् अस्मान् सर्वान् पालयति : गौ: दुग्धम् मानवानां पौष्टिक आहार बालानां रोगिणां च कृते मधुरं पथ्यं भवति । गो: मूत्रं पुरीषं च सर्वेत्ति शस्यखाद्यं भवति । अत: गोपालन अस्माभिः कर्त्तव्यम् ।

अस्माकं ग्रामः

अयं अस्माकं ग्राम: नद्याः तटे विद्यते । अत्रत्यः विशुद्धः शीतलश्च वायुः ग्राम्याणां क्लमं दूरीकरोति । अस्माकं ग्राम्याणां जीवनं सरलं स्वावलम्बिनं च भवति । ग्रामे शान्तिः विराजते । ग्राम गृहाणां समहो भवति. गृहाणि च लध्वाकारी भवन्ति । तेषु गृहेषु प्रकृतेः सर्व सोविध्यं तिष्ठति । तत्र नगराणाम् प्रदूषणं न भवति । शुद्धं वातावरणं शुद्धानि च भोज्यवस्तूनि मिलन्ति ।

Bihar Board Class 7 Sanskrit व्याकरण अनुच्छेद-लेखनम

वर्षाकाल:

श्रावणे भाद्रश्चेति मासद्वयं वर्षाः भवति । अस्मिन् ऋतौ मेघाः जलं वर्षन्ति । ग्रीष्मतापतप्ता धरित्री वर्षतौ पुनः सरसा जायते । शुष्यमाणाः पादपाः जीवनं लभन्ते । वापी-कूप-तडागाः नद्यश्च जलौधेन पूर्णाः भवन्ति । कृषकाः कृषिकार्येषु संलग्नाः दृश्यन्ते । प्रकृति नटी नवीनां हरिताम् आकृति- दधाना शोभते । कृष्णवर्णाः मेघघटाः गर्जन्ति, वर्षन्ति च । अस्मिन् काले मयूराः नर्तनं कुर्वन्ति ।

Leave a Comment